महिला अध्ययन केन्द्र

महिलाध्ययनकेंद्रस्य स्थापना यू.जी.सी. इत्यस्य दशम्यां योजनायां 2005 तमे वर्षेऽभूत्| मार्च २००६ तमे वर्षे अध्यापकानां नियुक्त्या सह अप्रैल 2006 तः केंद्रं कार्यारम्भमकरोत्| संस्कृतविश्विद्यालयस्य सूच्यां केवलं श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविश्विद्यालये एव महिलाध्ययन केंद्रं स्थापितं वर्तते|

उदेश्यम् : परम्परागते वातावरणे केंद्रस्य अस्य निम्नांकितानि उद्देश्यानि वर्तन्ते -

  1. पूर्वं भारतीयमहिलाभ्यः प्राप्तसम्माननस्य वैभवस्य च पुनरुथान
  2. प्राचीनमहिलानाम् उपलब्धोपलब्धीनां प्रेरणा-स्रोतरूपेण प्रस्तुतिकरणम्|
  3. प्राचीनोत्कृष्टपुस्तकानां महिलाध्ययनपरिप्रेक्ष्ये व्याख्या करणम्|