सर्वदर्शनविभागः

सर्वदर्शनं तादृशं शास्त्रं यत् दर्शनशास्त्रस्य सर्वाङ्गीणाध्ययनं कारयति । दर्शनस्य लक्ष्यं निश्रेयसः प्राप्तिरस्ति । व्यक्तेः परमं लक्ष्यं भौतिकमपि भवितुमर्हति, आध्यात्मिकं चापि । तत्र दर्शनशास्त्रम् उभयोरपि मार्गयोः औचित्यं प्रस्तूय कर्तव्याकर्तव्यानां दिशाबोधं कारयति । अतः इदं व्यक्तेः भौतिक- आध्यात्मिकविकासाय महत्त्वपूर्णं वर्तते । भारतीयदर्शनस्यारम्भः वेदेभ्यः भवति । अस्योत्कर्षः उपनिषत्सु लभ्यते । कालान्तरे यथार्थ-तत्त्वस्य पृथक् पृथक् विश्लेषणाधारेण विवरणप्रक्रियायां सांख्य-योग-न्याय-वैशेषिक-मीमांसा-वेदान्तानां षड्दर्शनानां चार्वाक-जैन-बौद्ध-शैवदर्शनाननां चाभ्युदयो जातः । एतैः सर्वैरपि दर्शनैः स्वविचाराः सूत्रशैल्या प्रस्तुताः, ते च तत्तद्दर्शनानां सूत्रग्रन्थनाम्ना प्रसिद्धाः । यथा – सांख्यसूत्रं, योगसूत्रं, न्यायसूत्रं, मीमांसासूत्रं च । सर्वदर्शनविषये एतेषां सर्वेषां दर्शनानाम् अध्ययनं तदीयाधारभूतसूत्रग्रन्थानां भाष्यग्रन्थानां च माध्यमेन कार्यते । तेन सहैव समकालीनदर्शनस्य पाश्चात्यदर्शनस्य च संक्षिप्तपरिचयोऽपि दीयते ।

अध्ययनसामग्री / संदर्भ:

faculty
क्रमांक:शीर्षक:अवारोपणम्
1परीक्षणफ़ाइल:अवारोपणम् (80.83 KB) pdf

संकायविवरण:

faculty
क्रमांक: चित्रम् नाम विभाग पद
1 संगीता खन्ना प्रो. संगीता खन्ना सर्वदर्शनविभागः आचार्यः
2 प्रभाकरप्रसादः प्रो. प्रभाकरप्रसादः सर्वदर्शनविभागः आचार्यः
3 जवाहरलालः प्रो. जवाहरलालः सर्वदर्शनविभागः आचार्यः
4 विजय गुप्ता डॉ विजय गुप्ता सर्वदर्शनविभागः सहायकाचार्यः