विश्वविद्यालय: सन्दर्भे

अखिलभारतीयसंस्कृतसाहित्यसम्मेलनेन ८ अक्टूबर, १९६२तमे वर्षे विजयदशम्याः दिने देहलीनगरे संस्कृतविद्यापीठं स्थापितम्, यत्र च डा. मण्डनमिश्रः विद्यापीठस्य विशेषकार्याधिकारी तथा च निदेशकरूपेण नियुक्तः अभवत्। सम्मेलने स्वीकृतनिर्णयानुसारम् अखिलभारतीयसंस्कृतविद्यापीठनाम्ना काचित् पृथक् संस्था स्थापिता। एतस्याः संस्थापकाध्यक्षः स्वर्गीयप्रधानमन्त्री श्रीलालबहादुरशास्त्री आसीत्। विद्यापीठस्य विकासाय स्वर्गीयलालबहादुरशास्त्रिणां महती प्रेरणा तथा च मार्गदर्शनं महत्वपूर्णभूमिकां निरवहत्। स्वर्गीयप्रधानमन्त्री श्रीलालबहादुरशास्त्री विद्यापीठमिदम् अन्तर्राष्ट्रीयविद्यापीठं निर्मास्यामः इति अघोषयत्।

शास्त्रिणः निधनस्य अनन्तरं भूतपूर्वप्रधानमन्त्री श्रीमती इन्दिरागान्धी विद्यापीठस्य अध्यक्षतां स्व्यकरोत्। अनन्तरं सा उदघोषयत् यत् २ अक्टूबर, १९६६तः विद्यापीठं श्री लालबहादुर शास्त्री राष्ट्रीय संस्कृत विद्यापीठम् इति नाम्ना भविष्यति इति। अप्रैल, १९६७ तमे वर्षे विद्यापीठस्य अधिग्रहणं भारतसर्वकारेण कृतं तथा च २१दिसम्बर् १९७० तमे वर्षे विद्यापीठं श्री लालबहादुर शास्त्री केन्द्रीय संस्कृत विद्यापीठम्, नई दिल्ली (एका पञ्जीकृतस्वायत्तसंस्था) शिक्षामन्त्रालय भारतसर्वकारस्य इति अङ्गं भूत्वा श्री लालबहादुर शास्त्री केन्द्रीय संस्कृत विद्यापीठम् इति नाम्ना कार्यं कर्तुम् आरभत।

विद्यापीठस्य कार्यात् तथा बहुमुखीविकासात् प्रभावितः भारतसर्वकारः एषः मानितविश्वविद्यालयः इति स्तरं दातुं प्रस्तावम् अकरोत्। अन्ततः च आवश्यकपरीक्षणं विधाय अन्यौपचारिकतां प्रपूर्य भारतसर्वकारेण विश्वविद्यालय-अनुदान-आयोगद्वारा नवम्बरमासस्य १९८७तमे वर्षे इदं विद्यापीठं मानितविश्वविद्यालयस्तरम् अप्राप्यत।

विश्वविद्यालय-अनुदान-आयोगद्वारा राष्ट्रीयसंस्कृतसंस्थानात् पृथक् एका संस्था श्री लालबहादुर शास्त्री केन्द्रीय संस्कृत विद्यापीठम् इति नाम्ना भूषिता, भूतपूर्वमानवसंसाधनविकासमन्त्री श्री पी.वी. नरसिंहरावस्य अध्यक्षतायां २० जनवरी १९८७तमे वर्षे पञ्जीकृता अभूत्। १९८९ तमे वर्षे डा. मण्डनमिश्रः एतस्य विश्वविद्यालस्य प्रथमकुलपतिः बभूव। १ नवम्बर १९९१तः इदं विद्यापीठं मानितविश्वविद्यालयरूपेण कार्यं कर्तुम् आरभत्।

विगत-३८वर्षेभ्यः इदं विद्यापीठं उत्कृष्टनायकानां, संसदसदस्यानां, विधानसभासदस्यानाम्, उद्योगपतिनां, सामान्यजनानां च ध्यानं स्वौपरि केन्द्रीकृतम्। एतस्य मुख्यं कारणं तु संस्कृतस्य केन्द्रीयसंस्थानरूपेन परिवर्तनम् इति। ३२० कार्यक्रमाणाम् आयोजनेन तथा च विभिन्नेषु समाचारपत्रेषु विभिन्नप्रकाशनेषु, अन्य संचारमाध्यमेन इदं विद्यापीठं प्रत्येकमपि जनेषु संस्कृतभाषायाः वैभवं स्थापयितुं सफलम् अभवत्। एवं रूपेण जनजागृतेः कार्यं जातं, तथा च विभिन्नाः कार्यकर्तारः अस्यां दिशायां अग्रे आगताः। इदं च विद्यापीठस्य अभूतपूर्वोपलब्धिः। विद्यापीठस्य एतदुपलब्धौ युगप्रवर्तिकायाः श्रीमत्याः इन्दिरागान्धेः विशेषेण ध्यानं केन्द्रीकृतं तथा च तया स्वकीयेषु सन्देशेषु शोधेन तथा प्रकाशनेन समं सांस्कृतिकजागरणक्षेत्रे विद्यापीठस्य साफल्यस्य समुल्लेखः अकारि।

एवं प्रकारेण श्री लालबहादुरशास्त्री राष्ट्रीय संस्कृत विद्यापीठम् शास्त्रीय-पारम्परिकविषयाणां अध्यापनेन एवं गहनानुसंधानेन भारतीयवैज्ञानिकपरम्परायाः संरक्षणं कुर्वत् अद्यत्वे सङ्गणकयुगे आधुनिकवैज्ञानिकशिक्षणपरम्परायाः समन्वयस्थापयितुं सार्थकं प्रयासं कुर्वत् अस्ति।

दशमपञ्चवर्षीययोजनायां समीक्षासमित्या विद्यापीठस्य कार्याणि प्रगतिं च निम्नशब्दैः प्रशंसितं-
"विश्वविद्यालयस्य कार्यं प्रशंसनीयम् अस्ति। शिक्षणसङ्कायः शैक्षिणिकदृष्ट्या समृद्धः अस्ति। तथा च ज्ञानस्य प्रसारे उत्तमा अस्ति। विद्यार्थिनः अपि अध्ययने विशेषरुचिं स्थापयन्ति। अस्मिन् विश्वविद्यालये सैद्धान्तिकज्ञानेन सह ज्यौतिष्यप्रयोगशाला अपि एवम् अन्यसाधनानां प्रयोगेण व्यावाहारिकं प्रशिक्षणम् अपि मुख्यबिन्दुः अस्ति। विश्वविद्यालयस्य प्रकाशनसंस्थायां क्रियमाणानि शोधकार्याणि अपि परिचायकानि सन्ति। स्थानस्य न्यूनताकारणात् अध्यापनकार्येषु काठिन्यरूपा समस्या विद्यापीठस्य अध्यापकानां समस्यासु अन्यतमा अस्ति। निर्माणाधीनशैक्षिणिकखण्डः एतस्याः समस्यायाः समाधानं कर्तुं शक्नुयात्।"