दृष्टिः उद्देश्यम्

श्री लाल बहादुर शास्त्री जी की दृष्टि एवं ध्येय
maingate

दृष्टिः

शास्त्रीयसमृद्धज्ञानपरम्परायाः संरक्षणमभिवर्धनञ्च, आधुनिकसमस्यानां सन्दर्भे प्राचीनज्ञानस्य व्याख्याकरणम्, एतस्य निरन्तरप्रासङ्गिकतां महत्त्वञ्च सुनिश्चितीकरणम्।

उद्देश्यम्

  1. उन्नतविषयेषु विशेषावधानं दत्वा पारम्परिकसंस्कृताध्ययने व्यापकं शिक्षणम् ।
  2. संस्कृतशिक्षायां भारतीयज्ञानप्रणाल्याञ्च अत्याधुनिकानुसन्धानाय प्रोत्साहनम् ।
  3. शास्त्रीयसमकालीनसंस्कृतसाहित्ययो: गहनमध्ययनम् ।
  4. गहनशोधमाध्यमेन संस्कृतपरम्परागतदायादावबोधस्य समृद्धीकरणम् ।
  5. पारम्परिकसमकालीनदृष्टिकोणानाम् एकीकरणं कृत्वा शास्त्राणां गहनतम-व्याख्याप्रस्तुतीकरणम् ।
  6. संस्कृते निहितज्ञानप्रबोधस्य घटकशास्त्राणानाञ्चोन्नतप्रशिक्षणम् यथा ज्योतिषवास्तुयोगादिशास्त्राणाम् ।
  7. प्राचीनपाण्डुलिपीनां संरक्षणं समीक्षात्मकविश्लेषणञ्च ।
  8. विद्यालयेभ्य: सक्षमसंस्कृतशिक्षकाणां प्रशिक्षणमुन्नतीकरणञ्च ।
  9. उच्चशिक्षणसंस्थानेभ्यः सक्षमोन्नतशिक्षकाणां प्रशिक्षकाणाञ्च प्रशिक्षणं तत्सम्पादनञ्च ।
  10. संस्कृतशिक्षायामनुसन्धाने चोत्कृष्टताप्राप्तये एकं विशिष्टं सम्मानितञ्च प्रतिष्ठापनम् ।