विश्वविद्यालय-प्राङ्गणे ७७तमः गणतन्त्रदिवसः अत्यन्तं हर्षोल्लासपूर्णेन, गरिमामयेन राष्ट्रभक्तिपूर्णेन च वातावरणेन सम्यक् आचरितः। अस्मिन् अवसरॆ माननीयः कुलपतिः प्रो. मुरलीमनोहरः पाठकः महोदयः भारतरत्नस्य पूर्वप्रधानमन्त्रिणः श्रीलालबहादुरशास्त्री-महोदयस्य प्रतिमायां पुष्पाञ्जलिं समर्प्य राष्ट्रीयध्वजं आरोहयत्। ततः पश्चात् राष्ट्रगीतस्य सामूहिकगायनं सम्पन्नम्, अनन्तरं प्रो. सुन्दरनारायण-झा-महोदयेन वैदिकः मङ्गलाचरणः प्रस्तुतः कृतः।
कार्यक्रमे माननीयस्य कुलपतेः स्वागतं वरिष्ठाचार्येण प्रो. शीतलाप्रसाद-शुक्ल-महोदयेन कृतम्, तथा कुलसचिवस्य स्वागतं वरिष्ठाचार्येण IQAC-निदेशकः प्रो. देवीप्रसाद-त्रिपाठी-महोदयेन कृतम्। स्वस्य प्रेरणादायिनि उद्बोधने माननीयः कुलपतिः राष्ट्रीयध्वजस्य महत्त्वं प्रतिपादयन् “विकसित-भारत–२०४७” इति संकल्पस्य उल्लेखं कृत्वा तस्मिन् विश्वविद्यालयस्य भूमिकां विशदीकृतवान्। सः विश्वविद्यालयस्य प्रमुखाः उपलब्धयः अपि अवदत्— यथा NAAC-संस्थया प्रदत्तं A++-श्रेणीमानम्, UGC-द्वारा प्रदत्तं श्रेणी–१ दर्जा, राष्ट्रीयशिक्षानीति–२०२० इत्यस्य सफलः क्रियान्वयनः, तथा दूरस्थशिक्षा-प्रणाल्याः विस्तारः।
कार्यक्रमे NCC एवं NSS-इकाइयोर् कैडेटानां सक्रियः सहभागः दृष्टः। लेफ्टिनेन्ट् डॉ. अभिषेक-तिवारी-महोदयेन NCC-कैडेटानां विगतवर्षेषु कृतानां उत्कृष्टकार्याणां विवरणं प्रस्तुतं कृतम्, तथा माननीयेन कुलपतिना कैडेटेभ्यः पदकानि प्रदाय सम्मानः कृतः। अपि च विश्वविद्यालये उत्कृष्टकार्यं कृतवन्तः कर्मचारीणः प्रशस्ति-पत्रैः प्रोत्साहन-धनराश्या च सम्मानिताः।
कार्यक्रमे विश्वविद्यालय-परिवारस्य सदस्यैः सामूहिकरूपेण “वन्दे मातरम्” इत्यस्य गायनं कृतम्। अन्ते कुलसचिवः आचार्यः पवनकुमार-शर्मा-महोदयः सर्वेषां आचार्याणां, अधिकारिणां, कर्मचारीणां, छात्राणां च प्रति कृतज्ञतां व्यक्तवान्। कार्यक्रमस्य सफलं सञ्चालनं डॉ. परमेश-शर्मा-महोदयेन कृतम्, तथा कार्यक्रमस्य समापनं राष्ट्रभक्तिपूर्णे उत्साहमये च वातावरणे सम्पन्नम्।


















