सर्वदर्शनविभागद्वारा आयोजितं विशिष्टव्याख्यानम्

  • सर्वदर्शनविभागस्य सहायकाचार्येण डॉ.विजयगुप्ताद्वारा प्रस्तावितं विशिष्टव्याख्यानं 06.10.2023 तमे दिनाङ्के सायंकाले 03:30 वादने विश्वविद्यालयस्य संगोष्ठीकक्षे (कक्ष सं. 03) आयोजितं जातम्। विश्वविद्यालयस्य माननीयकुलपतेः प्रो.मुरलीमनोहरपाठकवर्यस्याध्यक्ष्ये कार्यक्रमस्य शुभारम्भः भारतीयपरम्परानुसारं वैदिकं लौकिकञ्च मंगलाचरणेन अभूत। तदनन्तरं मुख्यवक्ता-प्रो.कृष्णकान्तशर्मणः आतिथ्यस्वागतमभिनन्दनञ्च कृतम्। विभागस्य वरिष्ठाचार्या प्रो.संगीताखन्ना स्वागतकथनं कृतवती। दर्शनशास्त्रपीठप्रमुखः प्रो.ए.एस.आरावमुदन् विषयप्रवर्तनं कृतवान्। मुख्यवक्तृरूपेण समागतस्य काशीहिन्दूविश्वविद्यालयस्य सेवानिवृत्ताचार्यस्य प्रो.कृष्णकान्तशर्मणः ‘साङ्ख्ययोगदर्शनयोरन्तःसम्बन्धः’ इतिविषयमधिकृत्य अत्यन्तं सारगर्भितं ज्ञानवर्द्धकञ्च व्याख्यानमभवत्। सर्वदर्शनविभागस्याचार्यः प्रो.जवाहरलालः कार्यक्रमस्य संचालनं कृतवान् । कार्यक्रमस्यान्ते च प्रो.बिष्णुपदमहापात्रेण ध्यन्यवादज्ञापनं कृतम्।

    • Photo_1
    • Photo_2
    • Photo_3
    • Photo_4
    • Photo_5
    • Photo_6