सर्वदर्शनविभागेन समायोजिता एकादशदिवसात्मकसर्वदर्शनसङ्ग्रहग्रन्थस्वाध्यायराष्ट्रियकार्यशाला सङ्गोष्ठी च

  • श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य दर्शनशास्त्रपीठान्तर्गतसर्वदर्शनविभागद्वारा नवम्बरमासस्य एकविंशतिदिनाङ्कतः दिसम्बरमासस्य प्रथमदिनाङ्कं यावत् एकादशदिवसात्मकसर्वदर्शनसङ्ग्रहग्रन्थस्वाध्यायराष्ट्रियकार्यशाला सङ्गोष्ठी चायोजिता।कार्यशालायामस्यां चतुश्चत्वारिंशदधिकद्विशतं पञ्जीकरणं जातम्।राष्ट्रस्यप्रायशःएकोनविंशतिप्रान्तेभ्यःसप्तसप्तत्यधिकसंस्थाभ्यःप्रतिभागिनः भागं गृहीतवन्तः। तत्र शोधच्छात्राः, पीडीएफशोधच्छात्राः, प्राध्यापकाः, टीजीटीप्राध्यापकाः, संस्कृतप्रवक्तारः, वरिष्ठकर्मचारिणः, शिक्षासलाहकाराः, सहायकाचार्याः, सहाचार्याः, आचार्याश्च अस्यां कार्यशालायां प्रतिभागं कृतवन्तः। कार्यशालायामस्यां आभासीयपटलेन प्रतिदिनं प्रायशः शताधिकप्रतिभागिनश्च पञ्चाशत्-षष्ठ्यधिकप्रतिभागिनः भौतिकीमुपस्थितिं प्रदत्तवन्तः।प्रथमदिवस्य प्रथमसत्रे प्रो.महेशप्रसादसिलोड़ीमहाभागानामाध्यक्ष्ये इयं कार्यशाला उद्घाटिता। तत्र मुख्यातिथिरूपेण अखिलभारतीयायुर्विज्ञानसंस्थानतः हृदयरोगविशेषज्ञाः प्रो.श्रीधरद्विवेदीमहाभागाः समागता आसन्। तत्र दर्शनशास्त्रपीठाध्याक्षाणां प्रो.केदारप्रसादपरोहावर्याणां सान्निध्यञ्च प्राप्तमासीत्। कार्यशालायामस्यां देशस्य विविधाभ्यः संस्थाभ्यः आगतैः बाह्यविषयविशेषज्ञैः प्रो.श्रीयांशसिङ्घई (केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरस्य जैनविभागीयाचार्यः), प्रो.सच्चिदानन्दमिश्रः (भारतीयदार्शनिकानुसन्धानपरिषदः सदस्यसचिवः), प्रो.धर्मदत्तचतुर्वेदी (वाराणसीस्थ केन्द्रीयउच्चतिब्बतीशिक्षासंस्थानस्य संस्कृतविभागाध्यक्षः), प्रो.ओमनाथविमली (दिल्लीविश्वविद्यालयस्य संस्कृतविभागाध्यक्षः), डॉ.महेशशर्मा (जयपुरस्थजगद्गुरुरामानन्दाचार्यसंस्कृतविश्वविद्यालयस्य दर्शनविभागीयाचार्यः) -विद्वद्भिः सर्वदर्शनसङ्ग्रहग्रन्थस्य भिन्नभिन्नप्रकरणस्याध्यापनं कृतम्। सङ्गोष्ठ्याञ्च प्रतिभागिभ्यः अध्यापितविषयमधिकृत्य शोधपत्रं प्रस्तुतम्। इयं कार्यशाला सर्वदर्शनविभागाध्यक्षाणां प्रो.प्रभाकरप्रसादानां वरिष्ठाचार्याणां, प्रो.संगीताखन्नामहाभागानाञ्च कुशलनिर्देशने सर्वदर्शनविभागीयाचार्यैः प्रो.जवाहरलालमहोदयैः संयोजने सहायकाचार्यैः डॉ.विजयगुप्तावर्यैश्च सहसंयोजने आयोजितम्।